From 3b0461d043adcbd2831a2c37ff4f8892db1df96b Mon Sep 17 00:00:00 2001 From: Vlasta Vesely Date: Thu, 3 May 2018 18:49:42 +0200 Subject: [PATCH] test: add first chapter of bahagavadgita --- tests/bg1 | 167 ++++++++++++++++++++++++++++++++++++++++++++++++++++++ 1 file changed, 167 insertions(+) create mode 100644 tests/bg1 diff --git a/tests/bg1 b/tests/bg1 new file mode 100644 index 0000000..a2aeeba --- /dev/null +++ b/tests/bg1 @@ -0,0 +1,167 @@ +भगवद्गीता/अर्जुनविषादयोगः + +प्रथमोऽध्याय: अर्जुनविषादयोगः + +ॐ +श्रीपरमात्मने नमः +अथ श्रीमद्भगवद्गीता +प्रथमोऽध्यायः + +धृतराष्ट्र उवाच + +धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । +मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥ + +सञ्जय उवाच + +दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । +आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥ + +पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । +व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥ + +अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । +युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥ + +धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । +पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥ + +युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । +सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥ + +अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । +नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥ + +भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । +अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥ + +अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । +नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥ + +अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । +पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥ + +अयनेषु च सर्वेषु यथाभागमवस्थिताः । +भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥ + +तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । +सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥ + +ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । +सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥ + +ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । +माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥ + +पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । +पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥ + +अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । +नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥ + +काश्यश्च परमेष्वासः शिखण्डी च महारथः । +धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥ + +द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । +सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥ + +स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । +नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥ + +अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । +प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥ + +हृषीकेशं तदा वाक्यमिदमाह महीपते । + +अर्जुन उवाच + +सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥ + +यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् । +कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥ + +योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । +धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥ + +सञ्जय उवाच + +एवमुक्तो हृषीकेशो गुडाकेशेन भारत । +सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥ + +भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । +उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥ + +तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । +आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥ + +श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । +तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥ + +कृपया परयाविष्टो विषीदन्निदमब्रवीत् । + +अर्जुन उवाच + +दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥ + +सीदन्ति मम गात्राणि मुखं च परिशुष्यति । +वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥ + +गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । +न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥ + +निमित्तानि च पश्यामि विपरीतानि केशव । +न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥ + +न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । +किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥ + +येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । +त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥ + +आचार्याः पितरः पुत्रास्तथैव च पितामहाः । +मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥ + +एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । +अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥ + +निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । +पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥ + +तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । +स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥ + +यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । +कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥ + +कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । +कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥ + +कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । +धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥ + +अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । +स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥ + +संकरो नरकायैव कुलघ्नानां कुलस्य च । +पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥ + +दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । +उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥ + +उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । +नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥ + +अहो बत महत्पापं कर्तुं व्यवसिता वयम् । +यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥ + +यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । +धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥ + +सञ्जय उवाच + +एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । +विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥ + +ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे +श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥ +